|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.197. अध्यायः 197
Mahabharata - Adi Parva - Chapter Topics
वसिष्ठवाक्येन लोकविनाशान्निवृत्तेन पराशरेण राक्षसनाशार्थं यज्ञारम्भः॥ 1 ॥ पुलस्त्यप्रार्थनया पराशरेण यज्ञसमापनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
गन्धर्व उवाच। 1-197-0x(1121)(8777)
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना।
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात्॥ 1-197-1(8778)
ईजे च स महातेजाः सर्ववेदविदां वरः।
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः॥ 1-197-2(8779)
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः।
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन्॥ 1-197-3(8780)
न हि तं वारयामास वसिष्ठो रक्षसां वधात्।
द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात्॥ 1-197-4(8781)
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः।
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः॥ 1-197-5(8782)
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः।
तद्विदीपितमाकाशं सूर्येणेव घनात्यये॥ 1-197-6(8783)
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे।
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम्॥ 1-197-7(8784)
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः।
समापिपयिषुः सत्रं तमत्रिः समुपागमत्॥ 1-197-8(8785)
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः।
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया॥ 1-197-9(8786)
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ।
उवाचेदं वचः पार्थ पराशरमरिन्दमम्॥ 1-197-10(8787)
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक।
अजानतामदोषाणां सर्वेषां रक्षसां वधात्॥ 1-197-11(8788)
प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि।
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम्॥ 1-197-12(8789)
शम एव परो धर्मस्तमाचर पराशर।
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर॥ 1-197-13(8790)
शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि।
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि॥ 1-197-14(8791)
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम्।
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम्॥ 1-197-15(8792)
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने।
`वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा।
शापं न कुर्वन्ति तदा न च त्राणपरायणाः॥ 1-197-16(8793)
क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति।'
आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत्॥ 1-197-17(8794)
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर।
राजा कल्माषपादश्च दिवमारुह्य मोदते॥ 1-197-18(8795)
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने।
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः॥ 1-197-19(8796)
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने।
रक्षसां च समुच्छेद एष तात तपस्विनाम्॥ 1-197-20(8797)
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन।
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते॥ 1-197-21(8798)
गन्धर्व उवाच। 1-197-22x(1122)
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता।
तदा समापयामास सत्रं शाक्तो महामुनिः॥ 1-197-22(8799)
सर्वराक्षससत्राय संभृतं पावकं तदा।
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने॥ 1-197-23(8800)
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च।
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि॥ ॥ 1-197-24(8801)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्तनवत्यधिकशततमोऽध्यायः॥ 197 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-197-4 माभाङ्क्षे न नाशयेयम्॥ 1-197-12 मद्यं मम॥ सप्तनवत्यधिकशततमोऽध्यायः॥ 197 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|